सूर्याष्टकं स्तोत्रं (Suryashtkam Stotram)
॥ श्री गणेशाय नम ॥ सांब उवाच आदिदेव नमस्तुभ्यं प्रसीद ममभास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ सप्ताऽश्वरथमारूढं प्रचंडं कश्यपात्मजं । श्वेतपद्मधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥ लोहितं रथमारूढं सर्वलोकपितामहं । महापापहरं देवं तं सूर्यम् प्रणमाम्यहम ॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं । महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥ बृंहितम् तेज:पुंजं च वायुमाकाशमेव च । […]